Sukta 8.20
वीळुपविभिर्मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः । इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः ॥
वी॒ळु॒प॒विभि॑र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभि॑: । इ॒षा नो॑ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो॑भरी॒यव॑: ॥
vīḷupaví-bhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudīti-bhiḥ | iṣā́ no adyā́ gatā puru-spṛho yajñám ā sobharī-yavaḥ ||
O Maruts, strong in your compact bands, O Rudras with bright discernments, come today with the power of increase for us—desiring many fulfillments—come to our offering, O children of Sobharī, to the inner sacrifice.
वी॒ळु॒प॒विऽभिः॑ । म॒रु॒तः॒ । ऋ॒भु॒क्ष॒णः॒ । आ । रु॒द्रा॒सः॒ । सु॒दी॒तिऽभिः॑ । इ॒षा । नः॒ । अ॒द्य । आ । ग॒त॒ । पु॒रु॒ऽस्पृ॒हः॒ । य॒ज्ञम् । आ । सो॒भ॒री॒ऽयवः॑ ॥वीळुपविभिः । मरुतः । ऋभुक्षणः । आ । रुद्रासः । सुदीतिभिः । इषा । नः । अद्य । आ । गत । पुरुस्पृहः । यज्ञम् । आ । सोभरीयवः ॥vīḷupavi-bhiḥ | marutaḥ | ṛbhukṣaṇaḥ | ā | rudrāsaḥ | sudīti-bhiḥ | iṣā | naḥ | adya | ā | gat a | puru-spṛhaḥ | yajñam | ā | sobharī-yavaḥ