Sukta 8.2
त्रयः कोशासः श्चोतन्ति तिस्रश्चम्वः सुपूर्णाः । समाने अधि भार्मन् ॥
त्रय॒: कोशा॑सः श्चोतन्ति ति॒स्रश्च॒म्व१॒॑: सुपू॑र्णाः । स॒मा॒ने अधि॒ भार्म॑न् ॥
tráyaḥ kóśāsaḥ ścotanti tisráś camváḥ supū́rṇāḥ | samāné adhí bhā́rman ||
Three vessels drip forth; three cups stand perfectly filled upon the common support—so the one delight is distributed in ordered measures for the ascent.
त्रयः॑ । कोशा॑सः । श्चो॒त॒न्ति॒ । ति॒स्रः । च॒म्वः॑ । सुऽपू॑र्णाः । स॒मा॒ने । अधि॑ । भार्म॑न् ॥त्रयः । कोशासः । श्चोतन्ति । तिस्रः । चम्वः । सुपूर्णाः । समाने । अधि । भार्मन् ॥trayaḥ | kośāsaḥ | ścotanti | tisraḥ | camvaḥ | su-pūrṇāḥ | samāne | adhi | bhārman