Sukta 8.2
गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयन्ते । अभित्सरन्ति धेनुभिः ॥
गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गय॑न्ते । अ॒भि॒त्सर॑न्ति धे॒नुभि॑: ॥
góbhir yád īm anyé asmán mṛgáṃ na vrā́ mṛgáyante | abhítsaranti dhenúbhiḥ ||
When others hunt him from us as hunters pursue a wild creature, they press in upon him with their herds of forces; yet the luminous ‘cows’ are not mere cattle—these are rival claimants of light seeking to seize the power.
गोभिः॑ । यत् । ई॒म् । अ॒न्ये । अ॒स्मत् । मृ॒गम् । न । व्राः । मृ॒गय॑न्ते । अ॒भि॒ऽत्सर॑न्ति । धे॒नुऽभिः॑ ॥गोभिः । यत् । ईम् । अन्ये । अस्मत् । मृगम् । न । व्राः । मृगयन्ते । अभित्सरन्ति । धेनुभिः ॥gobhiḥ | yat | īm | anye | asmat | mṛgam | na | vrāḥ | mṛgayante | abhi-tsaranti | dhenu-bhiḥ