Sukta 8.2
न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम् । अपस्पृण्वते सुहार्दम् ॥
न यं शु॒क्रो न दुरा॑शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सम् । अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द॑म् ॥
ná yaṃ śukró ná durāśī́r ná tṛprā́ uruvyácasam | apaspṛṇváte suhā́rdam ||
Him—wide in his luminous reach—neither the bright (force) nor ill-wishing nor the self-satisfied can push away; for he is the good-hearted power that cannot be excluded from the true movement.
न । यम् । शु॒क्रः । न । दुःऽआ॑शीः । न । तृ॒प्राः । उ॒रु॒ऽव्यच॑सम् । अ॒प॒ऽस्पृ॒ण्व॒ते । सु॒ऽहार्द॑म् ॥न । यम् । शुक्रः । न । दुःआशीः । न । तृप्राः । उरुव्यचसम् । अपस्पृण्वते । सुहार्दम् ॥na | yam | śukraḥ | na | duḥ-āśīḥ | na | tṛprāḥ | uru-vyacasam | apa-spṛṇvate | su-hārdam