Sukta 8.2
सनिता विप्रो अर्वद्भिर्हन्ता वृत्रं नृभिः शूरः । सत्योऽविता विधन्तम् ॥
सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हन्ता॑ वृ॒त्रं नृभि॒: शूर॑: । स॒त्यो॑ऽवि॒ता वि॒धन्त॑म् ॥
sánitā vípro árvadbhir hántā vṛtráṃ nṛ́bhíḥ śū́raḥ | satyó ’vitā́ vidhántam ||
Winner and inspired seer, with the steeds and with the heroic powers he slays the Coverer; true, he is the protector of the one who sets the right offering in order.
सनि॑ता । विप्रः॑ । अर्व॑त्ऽभिः । हन्ता॑ । वृ॒त्रम् । नृऽभिः॑ । शूरः॑ । स॒त्यः । अ॒वि॒ता । वि॒धन्त॑म् ॥सनिता । विप्रः । अर्वत्भिः । हन्ता । वृत्रम् । नृभिः । शूरः । सत्यः । अविता । विधन्तम् ॥sanitā | vipraḥ | arvat-bhiḥ | hantā | vṛtram | nṛ-bhiḥ | śūraḥ | satyaḥ | avitā | vidhantam