Sukta 8.2
यजध्वैनं प्रियमेधा इन्द्रं सत्राचा मनसा । यो भूत्सोमैः सत्यमद्वा ॥
यज॑ध्वैनं प्रियमेधा॒ इन्द्रं॑ स॒त्राचा॒ मन॑सा । यो भूत्सोमै॑: स॒त्यम॑द्वा ॥
yájadhvainam priya-medhā índraṃ satrā́cā mánasā | yó bhūt sómaiḥ satyá-madvā ||
Sacrifice to him, O lovers of the true intelligence—Indra with an ever-advancing mind; he who becomes, by the Soma-forces, the true intoxicated one (filled with truth-delight).
यज॑ध्व । ए॒न॒म् । प्रि॒य॒ऽमे॒धाः॒ । इन्द्र॑म् । स॒त्राचा॑ । मन॑सा । यः । भूत् । सोमैः॑ । स॒त्यऽम॑द्वा ॥यजध्व । एनम् । प्रियमेधाः । इन्द्रम् । सत्राचा । मनसा । यः । भूत् । सोमैः । सत्यमद्वा ॥yajadhva | enam | priya-medhāḥ | indram | satrācā | manasā | yaḥ | bhūt | somaiḥ | satya-madvā