Sukta 8.2
एष एतानि चकारेन्द्रो विश्वा योऽति शृण्वे । वाजदावा मघोनाम् ॥
ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे । वा॒ज॒दावा॑ म॒घोना॑म् ॥
eṣá etā́ni cakāréndro víśvā yo áti śṛṇvé | vā́ja-dāvā maghónām ||
This Indra has accomplished all these deeds—he who hears beyond the ordinary hearing; he is the giver of vāja, the dispenser of the bountiful plenitudes.
ए॒षः । ए॒तानि॑ । च॒का॒र॒ । इन्द्रः॑ । विश्वा॑ । यः । अति॑ । शृ॒ण्वे । वा॒ज॒ऽदावा॑ । म॒घोना॑म् ॥एषः । एतानि । चकार । इन्द्रः । विश्वा । यः । अति । शृण्वे । वाजदावा । मघोनाम् ॥eṣaḥ | etāni | cakāra | indraḥ | viśvā | yaḥ | ati | śṛṇve | vāja-dāvā | maghonām