Sukta 8.2
यस्मिन्विश्वाश्चर्षणय उत च्यौत्ना ज्रयांसि च । अनु घेन्मन्दी मघोनः ॥
यस्मि॒न्विश्वा॑श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां॑सि च । अनु॒ घेन्म॒न्दी म॒घोन॑: ॥
yasmín viśvāś carṣáṇaya uta cyautnā́ jrayā́ṃsi ca | ánu ghén mandī́ maghónaḥ ||
In whom all the peoples and the moving powers and the swift currents consent and follow—he indeed becomes the exhilarated giver, the Lord of plenitude.
यस्मि॑न् । विश्वाः॑ । च॒र्ष॒णयः॑ । उ॒त । च्यौ॒त्ना । ज्रयां॑सि । च॒ । अनु॑ । घ॒ । इत् । म॒न्दी । म॒घोनः॑ ॥यस्मिन् । विश्वाः । चर्षणयः । उत । च्यौत्ना । ज्रयांसि । च । अनु । घ । इत् । मन्दी । मघोनः ॥yasmin | viśvāḥ | carṣaṇayaḥ | uta | cyautnā | jrayāṃsi | ca | anu | gha | it | mandī | maghonaḥ