Sukta 8.2
एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् । गीर्भिः श्रुतं गिर्वणसम् ॥
एह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षत॒: सखा॑यम् । गी॒र्भिः श्रु॒तं गिर्व॑णसम् ॥
ā́ ihá harī́ brahma-yújā śagmā́ vakṣataḥ sákhāyam | gī́rbʰiḥ śrutáṃ gírvaṇasam ||
Hither, here—let the two tawny steeds yoked to the inspired Word bring the Friend, the Strong; him who is made heard by our songs, Indra the accepter of the hymns.
आ । इ॒ह । हरी॒ इति॑ । ब्र॒ह्म॒ऽयुजा॑ । श॒ग्मा । व॒क्ष॒तः॒ । सखा॑यम् । गीः॒ऽभिः । श्रु॒तम् । गिर्व॑णसम् ॥आ । इह । हरी इति । ब्रह्मयुजा । शग्मा । वक्षतः । सखायम् । गीःभिः । श्रुतम् । गिर्वणसम् ॥ā | iha | harī iti | brahma-yujā | śagmā | vakṣataḥ | sakhāyam | gīḥ-bhiḥ | śrutam | girvaṇasam