Sukta 8.2
स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि । शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम् ॥
स्वा॒दव॒: सोमा॒ आ या॑हि श्री॒ताः सोमा॒ आ या॑हि । शिप्रि॒न्नृषी॑व॒: शची॑वो॒ नायमच्छा॑ सध॒माद॑म् ॥
svādávaḥ sómā ā́ yāhi śrītā́ḥ sómā ā́ yāhi | śiprinn ṛ́ṣīvaḥ śácīvo ná ayam ácchā sadha-mā́dam ||
Come hither, O Indra, to the sweet Soma-draughts; come hither to the brightened Soma-draughts. O strong-jawed, sage-like, master of effective power—come to this our common gladness and inner feast.
स्वा॒दवः॑ । सोमाः॑ । आ । या॒हि॒ । श्री॒ताः । सोमाः॑ । आ । या॒हि॒ । शिप्रि॑न् । ऋषि॑ऽवः । शची॑ऽवः । न । अ॒यम् । अच्छ॑ । स॒ध॒ऽमाद॑म् ॥स्वादवः । सोमाः । आ । याहि । श्रीताः । सोमाः । आ । याहि । शिप्रिन् । ऋषिवः । शचीवः । न । अयम् । अच्छ । सधमादम् ॥svādavaḥ | somāḥ | ā | yāhi | śrītāḥ | somāḥ | ā | yāhi | śiprin | ṛṣi-vaḥ | śacī-vaḥ | na | ayam | accha | sadha-mādam