Sukta 8.2
ओ षु प्र याहि वाजेभिर्मा हृणीथा अभ्यस्मान् । महाँ इव युवजानिः ॥
ओ षु प्र या॑हि॒ वाजे॑भि॒र्मा हृ॑णीथा अ॒भ्य१॒॑स्मान् । म॒हाँ इ॑व॒ युव॑जानिः ॥
ó ṣu prá yāhi vā́jebhir mā́ hṛṇīthā abhy àsmān | mahā́m̐ iva yúva-jāniḥ ||
O, come forth to us with the plenitudes of force; do not turn away in disdain from us. Like a great one, come with youthful swiftness and renewing energy.
ओ इति॑ । सु । प्र । या॒हि॒ । वाजे॑भिः । मा । हृ॒णी॒थाः॒ । अ॒भि । अ॒स्मान् । म॒हान्ऽइ॑व । युव॑ऽजानिः ॥ओ इति । सु । प्र । याहि । वाजेभिः । मा । हृणीथाः । अभि । अस्मान् । महान्इव । युवजानिः ॥o iti | su | pra | yāhi | vājebhiḥ | mā | hṛṇīthāḥ | abhi | asmān | mahān-iva | yuva-jāni ḥ