Sukta 8.2
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । यन्ति प्रमादमतन्द्राः ॥
इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति । यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥
icchánti devā́ḥ sunvántam ná svápnāya spṛhayanti | yánti pramā́dam atándrāḥ ||
The gods desire the one who presses the Soma; they do not long for sleep. Untiring, they move toward the state of wakeful mastery, not toward negligence.
इ॒च्छन्ति॑ । दे॒वाः । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ । यन्ति॑ । प्र॒ऽमाद॑म् । अत॑न्द्राः ॥इच्छन्ति । देवाः । सुन्वन्तम् । न । स्वप्नाय । स्पृहयन्ति । यन्ति । प्रमादम् । अतन्द्राः ॥icchanti | devāḥ | sunvantam | na | svapnāya | spṛhayanti | yanti | pra-mādam | atandrāḥ