Sukta 8.2
इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः । शुक्रा आशिरं याचन्ते ॥
इ॒मे त॑ इन्द्र॒ सोमा॑स्ती॒व्रा अ॒स्मे सु॒तास॑: । शु॒क्रा आ॒शिरं॑ याचन्ते ॥
imé ta indra sómās tīvrā́ asmè sutā́saḥ | śukrā́ āśíraṃ yācante ||
These Soma-essences for you, O Indra—keen and pressed out for us—bright in their force, ask for the blending (the clarifying admixture) so that the ecstasy may become perfectly effective in the being.
इ॒मे । ते॒ । इ॒न्द्र॒ । सोमाः॑ । ती॒व्राः । अ॒स्मे इति॑ । सु॒तासः॑ । शु॒क्राः । आ॒ऽशिर॑म् । या॒च॒न्ते॒ ॥इमे । ते । इन्द्र । सोमाः । तीव्राः । अस्मे इति । सुतासः । शुक्राः । आशिरम् । याचन्ते ॥ime | te | indra | somāḥ | tīvrāḥ | asme iti | sutāsaḥ | śukrāḥ | āśiram | yācante