Sukta 8.19
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः । अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥
भ॒द्रं मन॑: कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सह॑: । अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥
bhadráṃ manaḥ kṛṇuṣva vṛtra-tū́rye yéna samátsu sāsáhaḥ | áva sthirā́ tanuhí bhū́ri śárdhatāṃ vanémā te abhiṣṭíbhíḥ ||
Make our mind a gracious good for the battle with the coverer, by which in the clashes we may prevail. Cast down and stretch firm the many hostile masses, so that by thy succours we may win.
भ॒द्रम् । मनः॑ । कृ॒णु॒ष्व॒ । वृ॒त्र॒ऽतूर्ये॑ । येन॑ । स॒मत्ऽसु॑ । स॒सहः॑ । अव॑ । स्थि॒रा । त॒नु॒हि॒ । भूरि॑ । शर्ध॑ताम् । व॒नेम॑ । ते॒ । अ॒भिष्टि॑ऽभिः ॥भद्रम् । मनः । कृणुष्व । वृत्रतूर्ये । येन । समत्सु । ससहः । अव । स्थिरा । तनुहि । भूरि । शर्धताम् । वनेम । ते । अभिष्टिभिः ॥bhadram | manaḥ | kṛṇuṣva | vṛtra-tūrye | yena | samat-su | sasahaḥ | ava | sth irā | tanuhi | bhūri | śardhatām | vanema | te | abhiṣṭi-bhiḥ