Sukta 8.18
शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः । शं वातो वात्वरपा अप स्रिधः ॥
शम॒ग्निर॒ग्निभि॑: कर॒च्छं न॑स्तपतु॒ सूर्य॑: । शं वातो॑ वात्वर॒पा अप॒ स्रिध॑: ॥
śám agnír agní-bhiḥ karac cháṃ nas tapatu sū́ryaḥ | śáṃ vā́to vātvarapā́ ápa srídhaḥ ||
May Agni with the fires create peace; may the Sun warm us in peace. May the Wind blow peace, blowing away affliction; cast away the harms.
शम् । अ॒ग्निः । अ॒ग्निऽभिः॑ । क॒र॒त् । शम् । नः॒ । त॒प॒तु॒ । सूर्यः॑ । शम् । वातः । वा॒तु॒ । अ॒र॒पाः । अप॑ । स्रिधः॑ ॥शम् । अग्निः । अग्निभिः । करत् । शम् । नः । तपतु । सूर्यः । शम् । वातः । वातु । अरपाः । अप । स्रिधः ॥śam | agniḥ | agni-bhiḥ | karat | śam | naḥ | tapatu | sūryaḥ | śam | vātaḥ | vātu | arapāḥ | apa | sridhaḥ