Sukta 8.18
उत त्या दैव्या भिषजा शं नः करतो अश्विना । युयुयातामितो रपो अप स्रिधः ॥
उ॒त त्या दैव्या॑ भि॒षजा॒ शं न॑: करतो अ॒श्विना॑ । यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिध॑: ॥
utá tyā́ daivyā́ bhiṣájā śáṃ naḥ karato aśvínā | yuyuyātām itó rápó ápa srídhaḥ ||
And may those divine healers, the Aśvins, work peace for us; may they drive away from here the affliction and cast off the harms.
उ॒त । त्या । दैव्या॑ । भि॒षजा॑ । शम् । नः॒ । क॒र॒तः॑ । अ॒श्विना॑ । यु॒यु॒याता॑म् । इ॒तः । रपः॑ । अप॑ । स्रिधः॑ ॥उत । त्या । दैव्या । भिषजा । शम् । नः । करतः । अश्विना । युयुयाताम् । इतः । रपः । अप । स्रिधः ॥uta | tyā | daivyā | bhiṣajā | śam | naḥ | karataḥ | aśvinā | yuyuyātām | itaḥ | rapaḥ | apa | sridhaḥ