Sukta 8.18
उत स्या नो दिवा मतिरदितिरूत्या गमत् । सा शंताति मयस्करदप स्रिधः ॥
उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् । सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिध॑: ॥
utá syā́ no divā́ matír adítir ūtyā́ gámāt | sā́ śaṃtā́ti máyas karad ápa srídhaḥ ||
And may that Aditi, our day-thought, come with her help; may she make for us a peace-bestowal and create delight, casting away all failures and hurts.
उ॒त । स्या । नः॒ । दिवा॑ । म॒तिः । अदि॑तिः । ऊ॒त्या । आ । ग॒म॒त् । सा । शम्ऽता॒ति॒ । मयः॑ । क॒र॒त् । अप॑ । स्रिधः॑ ॥उत । स्या । नः । दिवा । मतिः । अदितिः । ऊत्या । आ । गमत् । सा । शम्ताति । मयः । करत् । अप । स्रिधः ॥uta | syā | naḥ | divā | matiḥ | aditiḥ | ūtyā | ā | gamat | sā | śam-tāti | mayaḥ | karat | apa | sridhaḥ