Sukta 8.18
ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे । अंहोश्चिदुरुचक्रयोऽनेहसः ॥
ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे । अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हस॑: ॥
té hí putrā́so aditéḥ vidúr dveṣā́ṃsi yótave | aṃhóś cid uru-cákrayo 'nehásaḥ ||
For the sons of Aditi know how to drive away hostilities; even from distress they are wide-wheeled, moving without constriction.
ते । हि । पु॒त्रासः॑ । अदि॑तेः । वि॒दुः । द्वेषां॑सि । योत॑वे । अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः । अ॒ने॒हसः॑ ॥ते । हि । पुत्रासः । अदितेः । विदुः । द्वेषांसि । योतवे । अंहोः । चित् । उरुचक्रयः । अनेहसः ॥te | hi | putrāsaḥ | aditeḥ | viduḥ | dveṣāṃsi | yotave | aṃhoḥ | cit | uru-cakrayaḥ | anehasaḥ