Sukta 8.18
देवेभिर्देव्यदितेऽरिष्टभर्मन्ना गहि । स्मत्सूरिभिः पुरुप्रिये सुशर्मभिः ॥
दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि । स्मत्सू॒रिभि॑: पुरुप्रिये सु॒शर्म॑भिः ॥
devébhiḥ devi adite áriṣṭa-bharman nā́ gahi | smát sūrí-bhiḥ puru-priye suśárma-bhiḥ ||
O goddess Aditi, bearer of the unbroken safety, come here with the gods; with our seers and noble powers, O many-beloved, with protections of good peace.
दे॒वेभिः॑ । दे॒वि॒ । अ॒दि॒ते॒ । अरि॑ष्टऽभर्मन् । आ । ग॒हि॒ । स्मत् । सू॒रिऽभिः॑ । पु॒रु॒ऽप्रि॒ये॒ । सु॒शर्म॑ऽभिः ॥देवेभिः । देवि । अदिते । अरिष्टभर्मन् । आ । गहि । स्मत् । सूरिभिः । पुरुप्रिये । सुशर्मभिः ॥devebhiḥ | devi | adite | ariṣta-bharman | ā | gahi | smat | sūri-bhiḥ | puru-priye | suśarma-bhiḥ