Sukta 8.18
अनेहो मित्रार्यमन्नृवद्वरुण शंस्यम् । त्रिवरूथं मरुतो यन्त नश्छर्दिः ॥
अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्य॑म् । त्रि॒वरू॑थं मरुतो यन्त नश्छ॒र्दिः ॥
aného mitrāryaman nṛvád varuṇa śáṃsyam | trívārūthaṃ maruto yanta naś chárdiḥ ||
O Mitra and Aryaman, and thou Varuṇa rich in the human strength—be to us worthy of the soul’s praise; O Maruts, come bringing a triple shelter, a covering of peace for us.
अ॒ने॒हः । मि॒त्र॒ । अ॒र्य॒म॒न् । नृ॒ऽवत् । व॒रु॒ण॒ । शंस्य॑म् । त्रि॒ऽवरू॑थम् । म॒रु॒तः॒ । य॒न्त॒ । नः॒ । छ॒र्दिः ॥अनेहः । मित्र । अर्यमन् । नृवत् । वरुण । शंस्यम् । त्रिवरूथम् । मरुतः । यन्त । नः । छर्दिः ॥anehaḥ | mitra | aryaman | nṛ-vat | varuṇa | śaṃsyam | tri-varūtham | marutaḥ | yanta | naḥ | chardiḥ