Sukta 8.18
बृहद्वरूथं मरुतां देवं त्रातारमश्विना । मित्रमीमहे वरुणं स्वस्तये ॥
बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑ । मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥
bṛhádvarū́thaṃ marútāṃ deváṃ trātā́ram aśvínā | mitrám īmahe váruṇaṃ svastáye ||
We seek for our well-being Mitra and Varuṇa—those wide protectors; and we call the Aśvins, the saving powers, and the divine host of the Maruts, that the vast shelter (bṛhat) may stand around the soul.
बृ॒हत् । वरू॑थम् । म॒रुता॑म् । दे॒वम् । त्रा॒तर॑म् । अ॒श्विना॑ । मि॒त्रम् । ई॒म॒हे॒ । वरु॑णम् । स्व॒स्तये॑ ॥बृहत् । वरूथम् । मरुताम् । देवम् । त्रातरम् । अश्विना । मित्रम् । ईमहे । वरुणम् । स्वस्तये ॥bṛhat | varūtham | marutām | devam | trātaram | aśvinā | mitram | īmahe | varuṇam | svastaye