Sukta 8.18
यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत । युष्मे इद्वो अपि ष्मसि सजात्ये ॥
य॒ज्ञो ही॒ळो वो॒ अन्त॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ । यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑ ॥
yajñó hīḷó vo ántara ādityā́ asti mṛḷáta | yuṣmé íd vo ápi ṣmasi sajātyé ||
The yajña is your inner delight, O Ādityas—be gracious. For we belong to you; we are within your kinship and shared nature.
य॒ज्ञः । ही॒ळः । वः॒ । अन्त॑रः । आदि॑त्याः । अस्ति॑ । मृ॒ळत॑ । यु॒ष्मे इति॑ । इत् । वः॒ । अपि॑ । स्म॒सि॒ । स॒ऽजा॒त्ये॑ ॥यज्ञः । हीळः । वः । अन्तरः । आदित्याः । अस्ति । मृळत । युष्मे इति । इत् । वः । अपि । स्मसि । सजात्ये ॥yajñaḥ | hīḷaḥ | vaḥ | antaraḥ | ādityāḥ | asti | mṛḷata | yuṣme iti | it | vaḥ | api | smasi | sa-jātye