Sukta 8.18
यो नः कश्चिद्रिरिक्षति रक्षस्त्वेन मर्त्यः । स्वैः ष एवै रिरिषीष्ट युर्जनः ॥
यो न॒: कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्य॑: । स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जन॑: ॥
yó naḥ káś cid rírīkṣati rakṣastvéna mártyaḥ | sváiḥ ṣá eváiḥ ririṣīṣṭa yúr jánaḥ ||
Whoever among mortals seeks to harm us with the nature of a Rākṣasa, by his own forces he alone shall be shattered; the crooked man turns his violence back upon himself.
यः । नः॒ । कः । चि॒त् । रिरि॑क्षति । र॒क्षः॒ऽत्वेन॑ । मर्त्यः॑ । स्वैः । सः । एवैः॑ । रि॒रि॒षी॒ष्ट॒ । युः । जनः॑ ॥यः । नः । कः । चित् । रिरिक्षति । रक्षःत्वेन । मर्त्यः । स्वैः । सः । एवैः । रिरिषीष्ट । युः । जनः ॥yaḥ | naḥ | kaḥ | cit | ririkṣati | rakṣaḥ-tvena | martyaḥ | svaiḥ | saḥ | evaiḥ | ririṣīṣṭa | yuḥ | janaḥ