Sukta 8.18
समित्तमघमश्नवद्दुःशंसं मर्त्यं रिपुम् । यो अस्मत्रा दुर्हणावाँ उप द्वयुः ॥
समित्तम॒घम॑श्नवद्दु॒:शंसं॒ मर्त्यं॑ रि॒पुम् । यो अ॑स्म॒त्रा दु॒र्हणा॑वाँ॒ उप॑ द्व॒युः ॥
sám it tám aghám aśnavad duḥśáṃsaṃ mártyaṃ ripúm | yó asmatrā́ durhánāvāṃ́ úpa dvayúḥ ||
That evil overtakes the ill-speaking mortal enemy who comes here against us with a will to harm; the double-dealer approaching in hostility is seized by his own misfortune.
सम् । इत् । तम् । अ॒घम् । अ॒श्न॒व॒त् । दुः॒ऽशंस॑म् । मर्त्य॑म् । रि॒पुम् । यः । अ॒स्म॒ऽत्रा । दुः॒ऽहना॑वान् । उप॑ । द्व॒युः ॥सम् । इत् । तम् । अघम् । अश्नवत् । दुःशंसम् । मर्त्यम् । रिपुम् । यः । अस्मत्रा । दुःहनावान् । उप । द्वयुः ॥sam | it | tam | agham | aśnavat | duḥ-śaṃsam | martyam | ripum | yaḥ | asma-trā | duḥ-hanāvān | upa | dvayuḥ