Sukta 8.18
तत्सु नः शर्म यच्छतादित्या यन्मुमोचति । एनस्वन्तं चिदेनसः सुदानवः ॥
तत्सु न॒: शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो॑चति । एन॑स्वन्तं चि॒देन॑सः सुदानवः ॥
tát su naḥ śárma yacchatādityā yán mumócati | énasvantaṃ cid énasaḥ sudānavaḥ ||
Grant us indeed that shelter, O Ādityas, which releases; even one burdened with fault you loosen from the fault, O givers of a right largesse.
तत् । सु । नः॒ । शर्म॑ । य॒च्छ॒त॒ । आदि॑त्याः । यत् । मुमो॑चति । एन॑स्वन्तम् । चि॒त् । एन॑सः । सु॒ऽदा॒न॒वः॒ ॥तत् । सु । नः । शर्म । यच्छत । आदित्याः । यत् । मुमोचति । एनस्वन्तम् । चित् । एनसः । सुदानवः ॥tat | su | naḥ | śarma | yacchata | ādityāḥ | yat | mumocati | enasvantam | cit | enasaḥ | su-dānavaḥ