Sukta 8.16
तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः । इन्द्रं वर्धन्ति क्षितयः ॥
तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णय॑: । इन्द्रं॑ वर्धन्ति क्षि॒तय॑: ॥
tám arkébhiḥ tám sā́mabhis tám gā́yatraiś carṣáṇayaḥ | índraṃ vardhanti kṣitáyaḥ ||
Him they strengthen with illumined chants, with harmonies, with the Gayatri measures; the human habitations foster Indra—so that the Power of luminous mind grows in us.
तम् । अ॒र्केभिः॑ । तम् । साम॑ऽभिः । तम् । गा॒य॒त्रैः । च॒र्ष॒णयः॑ । इन्द्र॑म् । व॒र्ध॒न्ति॒ । क्षि॒तयः॑ ॥तम् । अर्केभिः । तम् । सामभिः । तम् । गायत्रैः । चर्षणयः । इन्द्रम् । वर्धन्ति । क्षितयः ॥tam | arkebhiḥ | tam | sāma-bhiḥ | tam | gāyatraiḥ | carṣaṇayaḥ | indram | vardhanti | kṣitayaḥ