Sukta 8.16
प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु । सासह्वांसं युधामित्रान् ॥
प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योति॑: स॒मत्सु॑ । सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न् ॥
pra-netā́raṃ vásyo ácchā kártāraṃ jyótiḥ samátsu | sāsahvā́ṃsaṃ yudhā́ amítrān ||
Toward the leader of the better way we move—toward the maker of Light in the battles; toward the overcomer who, by the fight, conquers the hostile powers.
प्र॒ऽने॒तार॑म् । वस्यः॑ । अच्छ॑ । कर्ता॑रम् । ज्योतिः॑ । स॒मत्ऽसु॑ । स॒स॒ह्वांस॑म् । यु॒धा । अ॒मित्रा॑न् ॥प्रनेतारम् । वस्यः । अच्छ । कर्तारम् । ज्योतिः । समत्सु । ससह्वांसम् । युधा । अमित्रान् ॥pra-netāram | vasyaḥ | accha | kartāram | jyotiḥ | samat-su | sasahvāṃsam | yudhā | amitrān