Sukta 8.16
स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः । एकश्चित्सन्नभिभूतिः ॥
स स्तोम्य॒: स हव्य॑: स॒त्यः सत्वा॑ तुविकू॒र्मिः । एक॑श्चि॒त्सन्न॒भिभू॑तिः ॥
sá stomyáḥ sá havyáḥ satyáḥ sátvā tuvikū́rmiḥ | ékaś cit sánn abhíbhūtiḥ ||
He is worthy of the hymn, he is worthy of the offering; he is truth, and a being of power, with vast surging energies. Even being one, he becomes the conquering mastery.
सः । स्तोम्यः॑ । सः । हव्यः॑ । स॒त्यः । सत्वा॑ । तु॒वि॒ऽकू॒र्मिः । एकः॑ । चि॒त् । सन् । अ॒भिऽभू॑तिः ॥सः । स्तोम्यः । सः । हव्यः । सत्यः । सत्वा । तुविकूर्मिः । एकः । चित् । सन् । अभिभूतिः ॥saḥ | stomyaḥ | saḥ | havyaḥ | satyaḥ | satvā | tuvi-kūrmiḥ | ekaḥ | cit | san | abhi-bhūtiḥ