Sukta 8.16
इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरू पुरुहूतः । महान्महीभिः शचीभिः ॥
इन्द्रो॑ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्र॑: पु॒रू पु॑रुहू॒तः । म॒हान्म॒हीभि॒: शची॑भिः ॥
índro brahméndra ṛ́ṣir índraḥ purū́ puruhūtáḥ | mahā́n mahī́bhiḥ śácībhiḥ ||
Indra is the sacred word and the shaping vision; Indra is the seer. Indra is abundant and many-called. Great is he by his mighty powers of effective will.
इन्द्रः॑ । ब्र॒ह्मा । इन्द्रः॑ । ऋषिः॑ । इन्द्रः॑ । पु॒रु । पु॒रु॒ऽहू॒तः । म॒हान् । म॒हीभिः॑ । शची॑भिः ॥इन्द्रः । ब्रह्मा । इन्द्रः । ऋषिः । इन्द्रः । पुरु । पुरुहूतः । महान् । महीभिः । शचीभिः ॥indraḥ | brahmā | indraḥ | ṛṣiḥ | indraḥ | puru | puru-hūtaḥ | mahān | mahībh iḥ | śacībhiḥ