Sukta 8.16
यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या । अपामवो न समुद्रे ॥
यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रव॒स्या॑ । अ॒पामवो॒ न स॑मु॒द्रे ॥
yásminn ukthā́ni ráṇyanti víśvāni ca śravasyā́ | apā́m ávo ná samudré ||
In whom all hymns delight and all seekings for fame find their fullness—like the waters’ might gathered in the ocean—so is Indra the vast receptacle of our inspired speech and its victorious renown.
यस्मि॑न् । उ॒क्थानि॑ । रण्य॑न्ति । विश्वा॑नि । च॒ । श्र॒व॒स्या॑ । अ॒पाम् । अवः॑ । न । स॒मु॒द्रे ॥यस्मिन् । उक्थानि । रण्यन्ति । विश्वानि । च । श्रवस्या । अपाम् । अवः । न । समुद्रे ॥yasmin | ukthāni | raṇyanti | viśvāni | ca | śravasyā | apām | avaḥ | na | samudre