Sukta 8.16
तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् । महो वाजिनं सनिभ्यः ॥
तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम् । म॒हो वा॒जिनं॑ स॒निभ्य॑: ॥
táṃ suṣṭutyā́ vivāse jyeṣṭha-rā́jaṃ bháre kṛ́tnum | mahó vā́jinaṃ saníbhyaḥ ||
With a right and well-shaped praise I seek to win him, the eldest king, complete in the battle— the great bringer of vāja, the plenitude of force, for our gains.
तम् । सु॒ऽस्तु॒त्या । वि॒वा॒से॒ । ज्ये॒ष्ठ॒ऽराज॑म् । भरे॑ । कृ॒त्नुम् । म॒हः । वा॒जिन॑म् । स॒निऽभ्यः॑ ॥तम् । सुस्तुत्या । विवासे । ज्येष्ठराजम् । भरे । कृत्नुम् । महः । वाजिनम् । सनिभ्यः ॥tam | su-stutyā | vivāse | jyeṣṭha-rājam | bhare | kṛtnum | mahaḥ | vājinam | sani-bhyaḥ