Sukta 8.16
प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः । नरं नृषाहं मंहिष्ठम् ॥
प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः । नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम् ॥
prá samrā́jaṃ carṣaṇīnā́m índraṃ stotā́ návyaṃ gī́rbhiḥ | náraṃ nṛṣā́haṃ máṃhiṣṭham ||
Forth I bring with new inspired words Indra, the universal king of the peoples— the Man, the overcomer of human limits, the most bountiful giver of plenitude.
प्र । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । स्तोता॑ । नव्य॑म् । गीः॒ऽभिः । नर॑म् । नृ॒ऽसाह॑म् । मंहि॑ष्ठम् ॥प्र । सम्राजम् । चर्षणीनाम् । इन्द्रम् । स्तोता । नव्यम् । गीःभिः । नरम् । नृसाहम् । मंहिष्ठम् ॥pra | sam-rājam | carṣaṇīnām | indram | stotā | navyam | gīḥ-bhiḥ | naram | nṛ-sāham | maṃhiṣṭham