Sukta 8.15
त्वं वृषा जनानां मंहिष्ठ इन्द्र जज्ञिषे । सत्रा विश्वा स्वपत्यानि दधिषे ॥
त्वं वृषा॒ जना॑नां॒ मंहि॑ष्ठ इन्द्र जज्ञिषे । स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिषे ॥
tváṃ vṛ́ṣā jánānāṃ máṃhiṣṭha indra jajñiṣe | satrā́ víśvā svàpatyā́ni dadhiṣe ||
You are the Bull-force of the peoples, the most bountiful; O Indra, you are born for this work: you hold in a constant way all powers of good begetting and right progeny—every true increase of our being.
त्वम् । वृषा॑ । जना॑नाम् । मंहि॑ष्ठः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ । स॒त्रा । विश्वा॑ । सु॒ऽअ॒प॒त्यानि॑ । द॒धि॒षे॒ ॥त्वम् । वृषा । जनानाम् । मंहिष्ठः । इन्द्र । जज्ञिषे । सत्रा । विश्वा । सुअपत्यानि । दधिषे ॥tvam | vṛṣā | janānām | maṃhiṣṭhaḥ | indra | jajñiṣe | satrā | viśvā | su-apatyān i | dadhiṣe