Sukta 8.13
स्तोता यत्ते विचर्षणिरतिप्रशर्धयद्गिरः । वया इवानु रोहते जुषन्त यत् ॥
स्तो॒ता यत्ते॒ विच॑र्षणिरतिप्रश॒र्धय॒द्गिर॑: । व॒या इ॒वानु॑ रोहते जु॒षन्त॒ यत् ॥
stotā́ yát te vícarṣaṇir atipraśardháyad gíraḥ | vayā́ ivā́nu rohate júṣanta yát ||
When the singer, O thou who beholdest men and their workings, makes the hymns surge beyond resistance—then they rise after thee like birds in flight, when thou acceptest and takest delight in them.
स्तो॒ता । यत् । ते॒ । विऽच॑र्षणिः । अ॒ति॒ऽप्र॒श॒र्धय॑त् । गिरः॑ । व॒याःऽइ॑व । अनु॑ । रो॒ह॒ते॒ । जु॒षन्त॑ । यत् ॥स्तोता । यत् । ते । विचर्षणिः । अतिप्रशर्धयत् । गिरः । वयाःइव । अनु । रोहते । जुषन्त । यत् ॥stotā | yat | te | vi-carṣaṇiḥ | ati-praśardhayat | giraḥ | vayāḥ-iva | anu | rohate | juṣanta | yat