Sukta 8.13
इमा अस्य प्रतूर्तयः पदं जुषन्त यद्दिवि । नाभा यज्ञस्य सं दधुर्यथा विदे ॥
इ॒मा अ॑स्य॒ प्रतू॑र्तयः प॒दं जु॑षन्त॒ यद्दि॒वि । नाभा॑ य॒ज्ञस्य॒ सं द॑धु॒र्यथा॑ वि॒दे ॥
imā́ asya pratū́rtayaḥ padáṃ juṣanta yád diví | nā́bhā yajñásya sáṃ dadhur yáthā vidé ||
These forward-driving powers delight in his step when it is in heaven; they set together the navel of the sacrifice, so that the knowing may be established.
इ॒माः । अ॒स्य॒ । प्रऽतू॑र्तयः । प॒दम् । जु॒ष॒न्त॒ । यत् । दि॒वि । नाभा॑ । य॒ज्ञस्य॑ । सम् । द॒धुः॒ । यथा॑ । वि॒दे ॥इमाः । अस्य । प्रतूर्तयः । पदम् । जुषन्त । यत् । दिवि । नाभा । यज्ञस्य । सम् । दधुः । यथा । विदे ॥imāḥ | asya | pra-tūrtayaḥ | padam | juṣanta | yat | divi | nābhā | yajñasya | sam | dadhuḥ | yathā | vide