Sukta 8.13
इह त्या सधमाद्या युजानः सोमपीतये । हरी इन्द्र प्रतद्वसू अभि स्वर ॥
इ॒ह त्या स॑ध॒माद्या॑ युजा॒नः सोम॑पीतये । हरी॑ इन्द्र प्र॒तद्व॑सू अ॒भि स्व॑र ॥
ihá tyā́ sadha-mā́dyā yujānás sóma-pītaye | hárī índra pratádvasū abhí svàr ||
Here, yoking those two comrades of the rapture, for the drinking of Soma—O Indra—let your two tawny powers press forward with their riches and sound forth the luminous cry within us.
इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । यु॒जा॒नः । सोम॑ऽपीतये । हरी॒ इति॑ । इ॒न्द्र॒ । प्र॒तद्व॑सू॒ इर्ति॑ प्र॒तत्ऽव॑सू । अ॒भि । स्व॒र॒ ॥इह । त्या । सधमाद्या । युजानः । सोमपीतये । हरी इति । इन्द्र । प्रतद्वसू इर्ति प्रतत्वसू । अभि । स्वर ॥iha | tyā | sadha-mādyā | yujānaḥ | soma-pītaye | harī iti | indra | pratadvasūirtipratat-vasū | abhi | svara