Sukta 8.12
ववक्षुरस्य केतवो उत वज्रो गभस्त्योः । यत्सूर्यो न रोदसी अवर्धयत् ॥
व॒व॒क्षुर॑स्य के॒तवो॑ उ॒त वज्रो॒ गभ॑स्त्योः । यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ॥
vavákṣur asya ketávo utá vájro gábhastyoḥ | yát sū́ryo na ródasī avárdhayat ||
His rays grew, and also the thunderbolt in his hands, when—like the Sun—he made the two worlds widen and increase.
व॒व॒क्षुः । अ॒स्य॒ । के॒तवः॑ । उ॒त । वज्रः॑ । गभ॑स्त्योः । यत् । सूर्यः॑ । न । रोद॑सी॒ इति॑ । अव॑र्धयत् ॥ववक्षुः । अस्य । केतवः । उत । वज्रः । गभस्त्योः । यत् । सूर्यः । न । रोदसी इति । अवर्धयत् ॥vavakṣuḥ | asya | ketavaḥ | uta | vajraḥ | gabhastyoḥ | yat | sūryaḥ | na | rodasī iti | avardhayat