Sukta 8.12
यदा सूर्यममुं दिवि शुक्रं ज्योतिरधारयः । आदित्ते विश्वा भुवनानि येमिरे ॥
य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः । आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥
yadā sū́ryam amúṃ diví śukráṃ jyótir ádhārayaḥ | ād íd te víśvā bhúvanāni yemire ||
When thou didst set that Sun—pure luminous Light—firmly in the heaven of the being, then indeed all the worlds and states of existence came to their right order and restraint under thy power.
य॒दा । सूर्य॑म् । अ॒मुम् । दि॒वि । शु॒क्रम् । ज्योतिः॑ । अधा॑रयः । आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥यदा । सूर्यम् । अमुम् । दिवि । शुक्रम् । ज्योतिः । अधारयः । आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥yadā | sūryam | amum | divi | śukram | jyotiḥ | adhārayaḥ | āt | it | te | viśvā | bhuvanāni | yemire