Sukta 8.12
यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे । आदित्ते हर्यता हरी ववक्षतुः ॥
य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे । आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
yadā́ te víṣṇur ójasā trī́ṇi padā́ ví-cakrame | ā́d ít te haryatā́ hárī vavakṣatuḥ ||
When for you Viṣṇu by his force strode out the three steps, then indeed your eager bay steeds bore you onward.
य॒दा । ते॒ । विष्णुः॑ । ओज॑सा । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे । आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥यदा । ते । विष्णुः । ओजसा । त्रीणि । पदा । विचक्रमे । आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥yadā | te | viṣṇuḥ | ojasā | trīṇi | padā | vi-cakrame | āt | it | te | haryatā | harī iti | vavakṣatuḥ