Sukta 8.12
यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधीः । आदित्ते हर्यता हरी ववक्षतुः ॥
य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः । आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
yadā́ vṛtráṃ nadī-vṛ́taṃ śáv asā vajrin ávadhīḥ | ā́d ít te haryatā́ hárī vavakṣatuḥ ||
When you, O thunderbolt-bearer, by your force struck down Vṛtra who had hemmed in the rivers, then indeed your eager bay steeds bore you onward.
य॒दा । वृ॒त्रम् । न॒दी॒ऽवृत॑म् । शव॑सा । व॒ज्रि॒न् । अव॑धीः । आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥यदा । वृत्रम् । नदीवृतम् । शवसा । वज्रिन् । अवधीः । आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥yadā | vṛtram | nadī-vṛtam | śavasā | vajrin | avadhīḥ | āt | it | te | haryatā | harī iti | vavakṣatuḥ