Sukta 8.12
यदिन्द्र पृतनाज्ये देवास्त्वा दधिरे पुरः । आदित्ते हर्यता हरी ववक्षतुः ॥
यदि॑न्द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः । आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥
yád indra pṛtanā́jye devā́s tvā dadhire puráḥ | ā́d ít te haryatā́ hárī vavakṣatuḥ ||
When, O Indra, in the pressing of the battle the gods set you in front, then indeed your two eager bay steeds bore you forward.
यत् । इ॒न्द्र॒ । पृ॒त॒नाज्ये॑ । दे॒वाः । त्वा॒ । द॒धि॒रे । पु॒रः । आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥यत् । इन्द्र । पृतनाज्ये । देवाः । त्वा । दधिरे । पुरः । आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥yat | indra | pṛtanājye | devāḥ | tvā | dadhire | puraḥ | āt | it | te | haryatā | harī iti | vavakṣatuḥ