Sukta 8.12
न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् । अमादिदस्य तित्विषे समोजसः ॥
न यं वि॑वि॒क्तो रोद॑सी॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् । अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ॥
ná yaṃ viviktó ródasī ná ántárikṣāṇi vajríṇam | amā́d íd asya titvíṣe sám ójasaḥ ||
Not the two worlds can set him apart, nor the mid-regions separate the wielder of the thunderbolt; from his very birth his blazing intensity gathers into a single force.
न । यम् । वि॒वि॒क्तः । रोद॑सी॒ इति॑ । न । अ॒न्तरि॑क्षाणि । व॒ज्रिण॑म् । अमा॑त् । इत् । अ॒स्य॒ । ति॒त्वि॒षे॒ । सम् । ओज॑सः ॥न । यम् । विविक्तः । रोदसी इति । न । अन्तरिक्षाणि । वज्रिणम् । अमात् । इत् । अस्य । तित्विषे । सम् । ओजसः ॥na | yam | viviktaḥ | rodasī iti | na | antarikṣāṇi | vajriṇam | amāt | it | asya | titviṣe | sam | ojasaḥ