Sukta 8.12
महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः । विश्वा वसूनि दाशुषे व्यानशुः ॥
म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः । विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः ॥
mahī́r asya prá-nītayaḥ pūrvī́r utá prá-śastayaḥ | víśvā vásūni dāśúṣe ví ānaśuḥ ||
Vast are his leadings and his ancient guidances, and great too are his affirming praises; to the giver they bring and make manifest all riches of being.
म॒हीः । अ॒स्य॒ । प्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः । विश्वा॑ । वसू॑नि । दा॒शुषे॑ । वि । आ॒न॒शुः॒ ॥महीः । अस्य । प्रनीतयः । पूर्वीः । उत । प्रशस्तयः । विश्वा । वसूनि । दाशुषे । वि । आनशुः ॥mahīḥ | asya | pra-nītayaḥ | pūrvīḥ | uta | pra-śastayaḥ | viśvā | vasūni | dāśuṣe | vi | ānaśuḥ