Sukta 8.12
देवंदेवं वोऽवस इन्द्रमिन्द्रं गृणीषणि । अधा यज्ञाय तुर्वणे व्यानशुः ॥
दे॒वंदे॑वं॒ वोऽव॑स॒ इन्द्र॑मिन्द्रं गृणी॒षणि॑ । अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः ॥
deváṁ-deváṁ vo’váse índram-indraṁ gṛṇī́ṣaṇi | ádhā yajñā́ya turváṇe vyā́naśuḥ ||
For your succour we would praise Indra again and again, the god ever anew; then, for the sacrifice that hastens onward, they have widely attained (the opening).
दे॒वम्ऽदे॑वम् । वः॒ । अव॑से । इन्द्र॑म्ऽइन्द्रम् । गृ॒णी॒षणि॑ । अध॑ । य॒ज्ञाय॑ । तु॒र्वणे॑ । वि । आ॒न॒शुः॒ ॥देवम्देवम् । वः । अवसे । इन्द्रम्इन्द्रम् । गृणीषणि । अध । यज्ञाय । तुर्वणे । वि । आनशुः ॥devam-devam | vaḥ | avase | indram-indram | gṛṇīṣaṇi | adha | yajñāya | turvaṇe | vi | ānaśuḥ