Sukta 8.12
यद्वासि सुन्वतो वृधो यजमानस्य सत्पते । उक्थे वा यस्य रण्यसि समिन्दुभिः ॥
यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते । उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ॥
yád vā́si sunvató vṛdhó yajamā́nasya satpate | ukthé vā yásya ráṇyasi sám índubhiḥ ||
Or if you are the increaser of the presser, O lord of the true, of the sacrificer—if in his uktha you take joy—then rejoice here together with the drops.
यत् । वा॒ । असि॑ । सु॒न्व॒तः । वृ॒धः । यज॑मानस्य । स॒त्ऽप॒ते॒ । उ॒क्थे । वा॒ । यस्य॑ । रण्य॑सि । सम् । इन्दु॑ऽभिः ॥यत् । वा । असि । सुन्वतः । वृधः । यजमानस्य । सत्पते । उक्थे । वा । यस्य । रण्यसि । सम् । इन्दुभिः ॥yat | vā | asi | sunvataḥ | vṛdhaḥ | yajamānasya | sat-pate | ukthe | vā | yasya | raṇyasi | sam | indu-bhiḥ