Sukta 8.12
यद्वा शक्र परावति समुद्रे अधि मन्दसे । अस्माकमित्सुते रणा समिन्दुभिः ॥
यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से । अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः ॥
yád vā śakra parāváti samudré ádhi mándase | asmā́kam ítsuté raṇā sám índubhiḥ ||
Or if, O Shakra, far away upon the ocean you take delight—yet in our pressed Soma, O fighter, rejoice together with the drops.
यत् । वा॒ । श॒क्र॒ । प॒रा॒ऽवति॑ । स॒मु॒द्रे । अधि॑ । मन्द॑से । अ॒स्माक॑म् । इत् । सु॒ते । र॒ण॒ । सम् । इन्दु॑ऽभिः ॥यत् । वा । शक्र । परावति । समुद्रे । अधि । मन्दसे । अस्माकम् । इत् । सुते । रण । सम् । इन्दुभिः ॥yat | vā | śakra | parāvati | samudre | adhi | mandase | asmākam | it | sute | raṇa | sam | indu-bhiḥ