Sukta 8.12
अभि वह्नय ऊतयेऽनूषत प्रशस्तये । न देव विव्रता हरी ऋतस्य यत् ॥
अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये । न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत् ॥
abhí váhnaya ūtáye’nūṣata práśastaye | ná deva vívratā hárī ṛtásya yát ||
The bearers of the flame have cried out toward help, toward praise; O god, your two tawny steeds do not deviate from the law—(they move) in that of ṛta.
अ॒भि । वह्न॑यः । ऊ॒तये॑ । अनू॑षत । प्रऽश॑स्तये । न । दे॒व॒ । विऽव्र॑ता । हरी॒ इति॑ । ऋ॒तस्य॑ । यत् ॥अभि । वह्नयः । ऊतये । अनूषत । प्रशस्तये । न । देव । विव्रता । हरी इति । ऋतस्य । यत् ॥abhi | vahnayaḥ | ūtaye | anūṣata | pra-śastaye | na | deva | vi-vratā | harī iti | ṛtasya | yat