Sukta 8.12
इयं त ऋत्वियावती धीतिरेति नवीयसी । सपर्यन्ती पुरुप्रिया मिमीत इत् ॥
इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी । स॒प॒र्यन्ती॑ पुरुप्रि॒या मिमी॑त॒ इत् ॥
iyáṁ ta ṛtvíyāvatī dhītír eti navī́yasī | saparyántī purupriyā mimī́ta ít ||
This ever-new thought of yours, rich in the right season and the law of the rite, moves forward—adoring and dear to many; it indeed measures out (for us) the true portions.
इ॒यम् । ते॒ । ऋ॒त्विय॑ऽवती । धी॒तिः । ए॒ति॒ । नवी॑यसी । स॒प॒र्यन्ती॑ । पु॒रु॒ऽप्रि॒या । मिमी॑ते । इत् ॥इयम् । ते । ऋत्वियवती । धीतिः । एति । नवीयसी । सपर्यन्ती । पुरुप्रिया । मिमीते । इत् ॥iyam | te | ṛtviya-vatī | dhītiḥ | eti | navīyasī | saparyantī | puru-priyā | mi mīte | it