Sukta 8.1
वस्याँ इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः । माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥
वस्याँ॑ इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु॑ञ्जतः । मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ॥
vasyā́ṃ indra asi me pitúr utá bhrā́tur abhuñjátaḥ | mātā́ ca me chadayathaḥ samā́ vaso vasutvanā́ya rā́dhase ||
O Indra, you are dearer to me than father and than brother who shares the enjoyment; you are also as a mother who covers and shelters. O Vasu, be with me for the gaining of true wealth—fullness of being and accomplished felicity.
वस्या॑न् । इ॒न्द्र॒ । अ॒सि॒ । मे॒ । पि॒तुः॒ । उ॒त । भ्रातुः॑ । अभु॑ञ्जतः । मा॒ता । च॒ । मे॒ । छ॒द॒य॒थः॒ । स॒मा । व॒सो॒ इति॑ । व॒सु॒ऽत्व॒नाय॑ । राध॑से ॥वस्यान् । इन्द्र । असि । मे । पितुः । उत । भ्रातुः । अभुञ्जतः । माता । च । मे । छदयथः । समा । वसो इति । वसुत्वनाय । राधसे ॥vasyān | indra | asi | me | pituḥ | uta | bhrātuḥ | abhuñjataḥ | mātā | ca | me | chadayathaḥ | samā | vaso iti | vasu-tvanāya | rādhase