Sukta 8.1
क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः । अलर्षि युध्म खजकृत्पुरंदर प्र गायत्रा अगासिषुः ॥
क्वे॑यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मन॑: । अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा॑य॒त्रा अ॑गासिषुः ॥
kvéyatha kvédasi purutrā́ ciddhí té manaḥ | álarṣi yudhma khajakṛt-purandara prá gā́yatrā́ agāsiṣuḥ ||
Where indeed do you set your movement, and where do you truly abide? For your consciousness ranges in many directions. O impetuous warrior, breaker of enclosures, the Gayatrī-powers have surged forth in song toward you, to awaken your force within us.
क्व॑ । इ॒य॒थ॒ । क्व॑ । इत् । अ॒सि॒ । पु॒रु॒ऽत्रा । चि॒त् । हि । ते॒ । मनः॑ । अल॑र्षि । यु॒ध्म॒ । ख॒ज॒ऽकृ॒त् । पु॒र॒म्ऽद॒र॒ । प्र । गा॒य॒त्राः । अ॒गा॒सि॒षुः॒ ॥क्व । इयथ । क्व । इत् । असि । पुरुत्रा । चित् । हि । ते । मनः । अलर्षि । युध्म । खजकृत् । पुरम्दर । प्र । गायत्राः । अगासिषुः ॥kva | iyatha | kva | it | asi | puru-trā | cit | hi | te | manaḥ | alarṣi | yudhma | khaja-kṛt | puram-dara | pra | gāyatrāḥ | agāsiṣuḥ